|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.45. अध्यायः 045
Mahabharata - Drona Parva - Chapter Topics
अभिमन्योः पराक्रमः तेन दुर्योधनपराजयः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-45-0x(4368)(46579)
आददानस्तु शूराणामायुंष्यभवदार्जुनिः।
अन्तकः सर्वभूतानां प्राणान्काल इवागते॥ 7-45-1(46580)
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली।
अभिमन्युस्तदानीकं लोडयन्समदृश्यत॥ 7-45-2(46581)
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः।
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणः॥ 7-45-3(46582)
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः।
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन्॥ 7-45-4(46583)
अहंपूर्वमहंपूर्वमिति क्षत्रियपुङ्गवाः।
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम्॥ 7-45-5(46584)
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम्।
जग्राह तिमिरासाद्य क्षुद्रमत्स्यानिवार्णिवे॥ 7-45-6(46585)
ये केचन गतास्तस्य समीपमपलायिनः।
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः॥ 7-45-7(46586)
महाग्रहगृहीतेव वातवेगभयार्दिता।
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे॥ 7-45-8(46587)
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली।
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत्॥ 7-45-9(46588)
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते।
अहमेनं ग्रीहष्यामि जीवग्राहं न संशयः॥ 7-45-10(46589)
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्।
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता॥ 7-45-11(46590)
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्।
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः॥ 7-45-12(46591)
स तस्येष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ।
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत्॥ 7-45-13(46592)
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्।
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना॥ 7-45-14(46593)
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः।
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः॥ 7-45-15(46594)
तालमात्राणि चापानि विकर्षन्तो महाबलाः।
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन्॥ 7-45-16(46595)
शूरैः निक्षाबलोपेतैस्तरुणैरत्यमर्षणैः।
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम्॥ 7-45-17(46596)
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत्।
वैवस्वतस्य भवनं गतं ह्येममन्यत॥ 7-45-18(46597)
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैः सुतेजनैः।
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः॥ 7-45-19(46598)
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष।
आचितं समपश्याम श्वाविधं शललैरिव॥ 7-45-20(46599)
स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवार्दितः।
गान्धर्वमस्त्रमायच्छद्रथमायां च भारत॥ 7-45-21(46600)
अर्जुनो तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्।
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान्॥ 7-45-22(46601)
एकधा शतधा राजन्दृश्यते स्म सहस्रधा।
अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन्॥ 7-45-23(46602)
रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः।
बिभेद शतधा राजञ्शरीराणि महीक्षिताम्॥ 7-45-24(46603)
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः।
राजन्प्रापुरसुं लोकं शरीराण्यवनिं ययुः॥ 7-45-25(46604)
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान्।
सिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः॥ 7-45-26(46605)
चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः।
राजपुत्रशतं तद्वत्सौभद्रेण निपातितम्॥ 7-45-27(46606)
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान्।
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत्॥ 7-45-28(46607)
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान्।
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः॥ 7-45-29(46608)
तयोः क्षणमिवापूर्वः सङ्ग्रामः समपद्यत।
अथाभवत्ते विमुखः पुत्रः शरशताहतः॥ ॥ 7-45-30(46609)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिसयुद्धे पञ्चत्वारिंशोऽध्यायः॥ 45 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-45- आयच्छत्प्रयुक्तवान्। रथमायां दुर्लक्ष्यां रथशिक्षाम्॥ 5-45- फलोपगः फलोन्मुखः॥ 5-45- पञ्चचत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|